|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.214. अध्यायः 214
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतींप्रति सदृष्टान्तप्रदर्शनं सर्वैर्विधेर्दुरतिक्रमत्वनिरूपणम्॥ 1 ॥ तता योधधर्मकथनपूर्वकं राज्ञां योधानां च प्राणयज्ञप्रशंसनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
महेश्वर उवाच।
श्रूयतां कारणं देवि यथा हि दुरतिक्रमः।
विधिः सर्वेषु भूतेषु मर्तव्ये समुपस्थिते॥ 13-214-1(89722)
आयुःक्षयेणोपहिताः समागम्य वरानने।
कीटाः पतङ्गा बहवः स्थूलाः सूक्ष्माश्च मध्यमाः। 7-214-2dc प्रज्वलत्सु प्रदीपेषु स्वयमेव पतन्ति ते॥ 13-214-2(89723)
बहूनां मृगयूथानां नानावननिषेविणाम्।
यस्तु कालं गतस्तेषां स वै पाशेन बध्यते॥ 13-214-3(89724)
सूनार्थं देवि बद्धानां क्षीणायुर्यो निबध्यते।
अवशो घातकस्याथ हस्तं तदहरेति सः॥ 13-214-4(89725)
यथा पक्षिगणाः क्षिप्रं विस्तीर्णाकाशगामिनः।
क्षीणायुषो निबध्यन्ते शक्ता अपि पलायितुम्॥ 13-214-5(89726)
यथा वारिचरा मीना बहवोऽम्बुजजातयः।
जालं समधिरोहन्ति स्वयमेव विधेर्वशात्॥ 13-214-6(89727)
शल्यकस्य च जिह्वाग्रं स्वयमारुह्य शोभने।
आयुःक्षयेणोपहता निबध्यन्ते सरीसृपाः॥ 13-214-7(89728)
कृषतां कर्षकाणां च नास्ति बुद्धिर्विहिंसने।
अथैषां लाङ्गलाग्राद्यैर्हन्यन्ते जन्तवोऽक्षयाः॥ 13-214-8(89729)
पादाग्रेणैव चैकेन यां हिंसां कुरुते नरः।
मातङ्गोपि न तां कुर्यात्कूरो जन्मशतैरपि॥ 13-214-9(89730)
म्रियन्ते यैर्हि मर्तव्यं न तान्घ्नन्ति कृषीवलाः।
कृषामीति मनस्तस्य नास्ति चिन्ता विहिंसने॥ 13-214-10(89731)
तस्माज्जीवसहस्राणि हत्वाऽपि न स लिप्यते।
विधिना स हतः पूर्वं पश्चात्प्राणि विपद्यते।
एवं सर्वेषु भूतेषु विधिर्हि दुरतिक्रमः॥ 13-214-11(89732)
गतायुषा मुहूर्तं तु न शक्यमुपजीवितुम्।
जीवितव्ये न मर्तव्यं न भूतं न भविष्यति॥ 13-214-12(89733)
शुभाशुभं कर्मफलं न शक्यमतिवर्तितुम्।
तथा ताभिश्च मर्तव्यं मोक्तव्याश्चैव तास्तथा॥ 13-214-13(89734)
रन्तिदेवस्य गावो वै विधेर्हि वशमागताः।
स्वयमायान्ति गावो वै हन्यन्ते यत्र सुन्दरि॥ 13-214-14(89735)
गवां वै हन्यमानानां रुधिरप्रभवा नदी।
चर्मण्वतीति विख्याता खुरशृङ्गास्थिदुर्गमा॥ 13-214-15(89736)
रुधिरं तां नदीं प्राप्य तोयं भवति शोभने।
मेध्यं पुण्यं पवित्रं च गन्धवर्णरसैर्युतम्॥ 13-214-16(89737)
तत्राऽभिषेकं कुर्वन्ति कृतजप्याः कृताह्निकाः।
द्विजा देवगणाश्चापि लोकपाला महेश्वराः॥ 13-214-17(89738)
तस्य राज्ञः सदा सत्रे स्वयमागम्य सुन्दरि।
विधिना पूर्वदृष्टेन तन्मांसमुपकल्पितम्।
मन्त्रवत्प्रतिगृह्णन्ति यतान्यायं यताविधि॥ 13-214-18(89739)
समांसं च सदा ह्यन्नं शतशोऽथ सहस्रशः।
भुञ्जानानां द्विजातीनामस्तमेति दिवाकरः॥ 13-214-19(89740)
गावो यास्तत्र हन्यन्ते राज्ञस्तस्य क्रतूत्तमे।
पठ्यमानेषु मन्त्रेषु यथान्यायं यथाविधि॥ 13-214-20(89741)
ताश्च स्वर्गं गता गावो रन्तिदेवश्च पार्थिवः।
सदा सत्रविधानेन सिद्धिं प्राप्तो नरोत्तमः॥ 13-214-21(89742)
अथ यस्तु सहायार्थमुक्तः स्यात्पार्थिवैर्नरैः।
भोगानां संविभागेन वस्त्राभरणभूषणैः॥ 13-214-22(89743)
सहभोजनसम्बद्धैः सत्कारैर्विविधैरपि।
सहायकाले सम्प्राप्ते सङ्ग्रामे शस्त्रमुद्धरेत्॥ 13-214-23(89744)
व्यूढानीके यथा सास्त्रं सेनयोरुभयोरपि।
हस्त्यश्वरथसम्पूर्णे पदातिबलसङ्कुले।
चामरच्छत्रशबले ध्वजचर्मायुधोज्ज्वले॥ 13-214-24(89745)
शक्तितोमरकुन्तासिशूलमुद्गरपाणिभिः।
कूटमुद्गरचापेषु मुसुण्ठीजुष्टमुष्टिभिः॥ 13-214-25(89746)
भिण्डिपालगदाचक्रप्रासकर्पटधारिभिः।
नानाप्रहरणैर्योधैः सेनयोरुभयोरपि।
युद्धशौण्डैः प्रगर्जद्भिर्वृषेषु वृषभैरिव॥ 13-214-26(89747)
शङ्खदुन्दुभिनादेन नानातूर्यरवेण च।
हयहेषितशब्देन कुञ्जराणां तु बृंहितैः॥ 13-214-27(89748)
योधानां सिंहनादैश्च घण्टानां शिञ्जितस्वनैः।
दिशश्च विदिशश्चैव समन्ताद्बधिरीकृताः॥ 13-214-28(89749)
ग्रीष्मान्तेष्विव गर्जद्भिर्नभशीव बलाहकैः।
रथनेमिखुरोद्धूतैररुणै रणरेणुभिः।
कपिलाभिरिवाकाशे छाद्यमाने समन्ततः॥ 13-214-29(89750)
प्रवृत्ते शस्त्रसम्पाते योधानां तत्र सेनयोः।
तेषां प्रहारक्षतजं रक्तचन्दनसन्निभम्॥ 13-214-30(89751)
तेषामस्राणि गात्रेभ्य स्रवन्ते रणमूर्धनि।
पलाशाशोकपुष्पाणां जङ्गमा इव राशयः॥ 13-214-31(89752)
रणे समभिवर्तन्त उद्यतायुधपाणयः।
शोभमाना रणे शूरा आह्वयन्तः परस्परम्॥ 13-214-32(89753)
हन्यमानेष्वभिघ्नत्सु शूरेषु रणसङ्कटे।
पृष्ठं दत्त्वा च ये तत्र नायकस्य नराधमाः॥ 13-214-33(89754)
अनाहता निवर्तन्ते नायके चाप्यनीप्सति।
ते दुष्कृतं प्रपद्यन्ते नायकस्याखिलं नराः।
यच्चास्ति सुकृतं तेषां युज्यते तेन नायकः॥ 13-214-34(89755)
अहिंसा परमो धर्म इति येऽपि नरा विदुः।
सङ्ग्रामेषु न युध्यन्ते भृत्याश्चैवानुरूपतः।
नरकं यान्ति ते घोरं भर्तृपिण्डापहारिणइः॥ 13-214-35(89756)
यस्तु प्राणान्परित्यज्य प्रविशेदुद्यतायुधः।
सङ्ग्राममग्निप्रतिमं पतह्ग इव निर्भयः।
स्वर्गमाविशते प्रेत्य ज्ञात्वा योधस्य निश्चयम्॥ 13-214-36(89757)
आविष्टश्चैव सत्त्वेन सघृणो जायते नरः।
प्रहारैर्नन्दयेद्देवि सत्वेनाधिष्ठितो हि सः।
प्रहारव्यथितश्चैव न वैक्लब्यमुपैति सः॥ 13-214-37(89758)
यस्तु स्वं नायकं रक्षेदतिघोरे रणाङ्कणे।
तापयन्नरिसैन्यानि सिंहो मृगगणानिव।
आदित्य इव मध्याह्ने दुर्निरीक्ष्यो रणाजिरे॥ 13-214-38(89759)
निर्दयो यस्तु सङ्ग्रामे प्रहरन्नुद्यतायुधः।
यजते स तु पूतात्मा सङ्ग्रामेण महाक्रतुम्॥ 13-214-39(89760)
चर्म कृष्णाजिनं तस्य दन्तकाष्ठं धनुः स्मृतम्।
रथो वेदिर्ध्वजो यूपः कुशाश्च रथरश्मयः॥ 13-214-40(89761)
मानो दर्पस्त्वहङ्कारस्त्रयस्त्रेताग्नयः स्मृताः।
प्रमोदस्च स्रुवस्तस्य उपाध्यायो हि सारथिः॥ 13-214-41(89762)
स्रुग्भाण्डं चापि यत्किञ्चिद्यज्ञोपकरणानि च।
आयुधान्यस्य तत्सर्वं समिधः सायकाः स्मृताः॥ 13-214-42(89763)
स्वेदस्रवश्च गात्रेभ्यः क्षौद्रं तस्य यशस्विनः।
पुरोडाशा नृशीर्षाणि रुधिरं चाहुतिः स्मृता।
तूणाश्चैव चरुर्ज्ञेया वसोर्धारा वसाः स्मृताः॥ 13-214-43(89764)
क्रव्यादा भूतसङ्घाश्च तस्मिन्यज्ञे द्विजतयः।
तेषां भक्षान्नपानानि हता नृगजवाजिनः।
भुञ्जते ते यथाकामं यता यज्ञे किमिच्छति॥ 13-214-44(89765)
निहतानां तु योधानां वस्त्राभरणभूषणम्।
हिरण्यं च सुवर्णं च यद्वै यज्ञस्य दक्षिणा॥ 13-214-45(89766)
यस्तत्र हन्यते देवि गजस्कन्धगतो नरः।
ब्रह्मलोकमवाप्नोति रणेष्वभिमुखो हतः॥ 13-214-46(89767)
रथमध्यगतो वाऽपि हयपृष्ठगतोपि वा।
हन्यते यस्तु सङ्ग्रामे शक्रलोके महीयते॥ 13-214-47(89768)
स्वर्गे हताः प्रपूज्यते हन्ता त्वत्रैव पूज्यते।
द्वावेतौ सुखमेधेते हन्ता यश्चैव हन्यते॥ 13-214-48(89769)
तस्मात्सङ्ग्राममासाद्य प्रहर्तव्यमभीतवत्॥ 13-214-49(89770)
निर्भयो यस्तु सङ्ग्रामे यस्तु सङ्ग्रामे प्रहरेदुद्यतायुधः।
यथा नदीसहस्राणि प्रविष्टानि महोदधिम्॥ 13-214-50(89771)
तथा सर्वे न सन्देहो धर्मा धर्मभृतांवरम्।
प्रविष्टा राजधर्मेण आचारविनयस्तथा॥ 13-214-51(89772)
वेदोक्ताश्चैव ये धर्माः पाषण्डेषु च कीर्तिताः।
तथैव मानुषा धर्मा धर्माश्चान्ये तथेतरे॥ 13-214-52(89773)
देशजातिकुलानां च ग्रामधर्मास्तथैव च।
ये धर्माः पार्वतीयेषु ये धर्माः पत्तनादिषु।
तेषां पूर्वप्रवृत्तानां कर्तव्यं परिरक्षणम्॥ 13-214-53(89774)
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः।
तस्माद्धर्मो न हन्तव्यः पार्थिवेन विशेषतः॥ 13-214-54(89775)
प्रजाः पालयते यत्र धर्मेण वसुधाधिपः।
षट्कर्मनिरता विप्राः पूज्यन्ते पितृदेवताः॥ 13-214-55(89776)
नैव तस्मिन्ननावृष्टिर्न रोगा नाप्युपद्रवाः।
धर्मशीलाः प्रजाः सर्वाः स्वधर्मनिरते नृपे॥ 13-214-56(89777)
एष्टव्यः सततं देवि युक्ताचारो नराधिपः।
छिद्रज्ञश्चैव शत्रूणामप्रमत्तः प्रतापवान्॥ 13-214-57(89778)
शूद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः।
तस्मात्प्रमादं सुश्रोणि न कुर्यात्पण्डितो नृपः॥ 13-214-58(89779)
तेषु मित्रेषु त्यक्तेषु तथा मर्त्येषु हस्तिषु।
विस्रम्भो नोपगन्तव्यः स्नानपानेषु नित्यशः॥ 13-214-59(89780)
राज्ञो वल्लभतामेति कुलं भावयते स्वकम्।
यस्तु राष्ट्रहितार्थाय गोब्राह्मणकृते तथा।
बन्दीग्रहाय मित्रार्थे प्राणांस्त्यजति दुस्त्यजान्॥ 13-214-60(89781)
सर्वकामदुघां धेनुं धरणीं लोकधारिणीम्।
समुद्रान्तां वरारोहे सशैलवनकाननाम्॥ 13-214-61(89782)
दद्याद्देवि द्विजातिभ्यो वसुपूर्णां वसुन्धराम्।
न तत्समं वरारोहे प्राणत्यागी विशिष्यते॥ 13-214-62(89783)
सहस्रमपि यज्ञानां यजते च यतर्द्धिमान्।
यज्ञैस्तस्य किमाश्चर्यं प्राणत्यागः सुदुष्करः॥ 13-214-63(89784)
तस्मात्सर्वेषु यज्ञेषु प्राणयज्ञो विशिष्यते।
एवं सङ्ग्रामयज्ञास्ते यथार्थं समुदाहृताः॥ ॥ 13-214-64(89785)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः॥ 214 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|